(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.70. अध्यायः 070
Mahabharata - Virata Parva - Chapter Topics
उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् ॥ 1 ॥ विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् ॥ 2 ॥ ततो रुष्टेन विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् ॥ 3 ॥ सैरन्ध्र्या क्षतात्प्रस्रवतो रक्तस्य निजोत्तरीयेण ग्रहणम् ॥ 4 ॥ तथा विराटेन तद्ग्रहणकारणप्रश्ने तत्कथनम् ॥ 5 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच । 4-70-0x(3272)(31334)
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥ 4-70-1(31335)
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥ 4-70-2(31336)
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥ 4-70-3(31337)
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ 4-70-4(31338)
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥ 4-70-5(31339)
विराट उवाच। 4-70-6x(3273)
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन।
न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् ॥ 4-70-6(31340)
कङ्क उवाच। 4-70-7x(3274)
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ 4-70-7(31341)
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः ।
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥ 4-70-8(31342)
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्।
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥ 4-70-9(31343)
विविधानां च रत्नानां धनानां च पराजये।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥ 4-70-10(31344)
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्।
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥ 4-70-11(31345)
अथवा मन्यसे राजन्दीव्याव यदि रोचते।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥ 4-70-12(31346)
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥ 4-70-13(31347)
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥ 4-70-14(31348)
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥ 4-70-15(31349)
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत्।
यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते ॥ 4-70-16(31350)
ततो विराटः क्षुभितो मन्युना च परिप्लुतः।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥ 4-70-17(31351)
तादृशेन तु योधेन महेष्वासेन धीमता।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥ 4-70-18(31352)
युधिष्ठिर उवाच। 4-70-19x(3275)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ 4-70-19(31353)
विराट उवाच। 4-70-20x(3276)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ 4-70-20(31354)
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥ 4-70-21(31355)
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत्।
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥ 4-70-22(31356)
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ॥ 4-70-23(31357)
वैशम्पायन उवाच। 4-70-24x(3277)
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः ।
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ॥ 4-70-24(31358)
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति।
निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम।
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥ 4-70-25(31359)
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥ 4-70-26(31360)
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥ 4-70-27(31361)
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान्।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥ 4-70-28(31362)
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥ 4-70-29(31363)
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् ।
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥ 4-70-30(31364)
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः।
सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः।
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥ 4-70-31(31365)
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः ।
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥ 4-70-32(31366)
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥ 4-70-33(31367)
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥ 4-70-34(31368)
वैशम्पायन उवाच। 4-70-35x(3278)
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा ।
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम्॥ 4-70-35(31369)
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम ।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥ 4-70-36(31370)
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥ 4-70-37(31371)
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्।
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥ 4-70-38(31372)
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्।
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥ 4-70-39(31373)
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः ।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥ 4-70-40(31374)
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा।
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥ 4-70-41(31375)
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥ 4-70-42(31376)
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥ 4-70-43(31377)
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी ।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥ 4-70-44(31378)
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता।
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् ।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥ 4-70-45(31379)
विराट उवाच। 4-70-46x(3279)
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते।
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥ 4-70-46(31380)
सैरन्ध्र्युवाच। 4-70-47x(3280)
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले।
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति॥ 4-70-47(31381)
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया।
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥ 4-70-48(31382)
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति।
यो यतीशं नियम्येत सहस्रं यातना यमे ॥ 4-70-49(31383)
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥ 4-70-50(31384)
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा।
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥ ॥ 4-70-51(31385)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-70-10 धनानां च विना..... वाक्पारुष्यं चाभवदिति शेषपूरणेन योजना ॥ 10 ॥ 4-70-19 किं किमपि ॥ 19 ॥ 4-70-47 धरणीतले पतेयुरिति शेषः ॥ 47 ॥ 4-70-48 नियम्येत नियमयेत् तस्येति शेषः ॥ 49 ॥ 4-70-50 अगृह्यत गृह्येत रक्तेनेति ॥ 50 ॥ 4-70-51 इतीममर्थम् ॥ 51 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.